(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.194. अध्यायः 194
Mahabharata - Drona Parva - Chapter Topics
दृर्योधनचोदनया कृपेण द्रोणवधं श्रावितस्याश्वत्थाम्नः कोपोदयः॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-194-0x(4776)(54090)
ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः।
हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः॥ 7-194-1(54091)
उदीर्णांश्च परान्दृष्ट्वा हर्षमाणान्पुनः पुनः।
अश्रुपूर्णेक्षणास्त्रस्ता दीनास्त्वासन्विशाम्पते॥ 7-194-2(54092)
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः।
आर्तस्वरेण महता पुत्रं ते पर्यवारयन्॥ 7-194-3(54093)
वेषण्णवदना दीना वीक्षमाणा दिशो दश।
अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते॥ 7-194-4(54094)
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव।
अशक्नुवन्नवस्थातुमपायात्तनयस्तव॥ 7-194-5(54095)
क्षुत्पिपासापरिम्लानास्ते योधास्तव भारत।
आदित्येनेव सन्तप्ता भृशं विमनसोऽभवन्॥ 7-194-6(54096)
भास्करस्येव पतनं समुद्रस्येव शोषणम्।
विपर्यासं यथा मेरोर्वासवस्येव निर्जयम्॥ 7-194-7(54097)
अप्रेक्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम्।
त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात्॥ 7-194-8(54098)
गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह।
हतं रुक्मरथं श्रुत्वा प्राद्रवत्सहितो रथैः॥ 7-194-9(54099)
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम्।
परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात्॥ 7-194-10(54100)
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम्।
मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात्॥ 7-194-11(54101)
हतप्रवीरैर्भूयिष्ठैर्ध्वजैर्बहुपताकिभिः।
वृतः शारद्वतोऽगच्छत्कष्टङ्कष्टमिति ब्रुवन्॥ 7-194-12(54102)
भोजनीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः।
कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः॥ 7-194-13(54103)
पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः।
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम्॥ 7-194-14(54104)
दर्शनीयो युवा चैव शौर्येण कृतलक्षणः।
दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः॥ 7-194-15(54105)
रथानामयुतं गृह्य त्रिसाहस्रं च दन्तिनाम्।
वृषसेनो ययौ तूर्णं दृष्ट्वा द्रोणं निपातितम्॥ 7-194-16(54106)
गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः।
दुर्योधनो महाराज प्रायात्तत्र महारथः॥ 7-194-17(54107)
संशप्तकगणाद्गृह्य हतशेषान्किरीटिना।
सुशर्मा प्राद्रावद्राजन्दृष्ट्वा द्रोणं निपातितम्॥ 7-194-18(54108)
गजान्रथान्समारुह्य व्युदस्य च हयाञ्जनाः।
प्राद्रवन्सर्वतः सङ्ख्ये दृष्ट्वा रुक्मरथं हतम्॥ 7-194-19(54109)
त्वरयन्तः पितॄनन्ये भ्रातॄनन्येऽथ मातुलान्।
पुत्रानन्ये वयस्यांश्च प्राद्रवन्कुरवस्तदा॥ 7-194-20(54110)
चोदयन्तश्च सैन्यानि स्वस्त्रीयांश्च तथाऽपरे।
सम्बन्धिनस्तथाऽन्ये च प्राद्रवन्त दिशो दश॥ 7-194-21(54111)
प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः।
नेदमस्तीति मन्वाना हतोत्साहा हतौजसः॥ 7-194-22(54112)
उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो।
अन्योन्यं ते समाक्रोशन्यैनिका भरतर्षभ॥ 7-194-23(54113)
तिष्ठतिष्ठेति न च ते स्वयं तत्रावतस्थिरे।
धुर्यानुन्मुच्य च रथाद्धतसूतात्स्वलङ्कृतान्।
अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन्॥ 7-194-24(54114)
द्रमाणे तथा सैन्ये त्रस्तरूपे हतौजसि।
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात्॥ 7-194-25(54115)
तस्यासीत्सुमहद्युद्धं शिखण्डिप्रमुखैर्गणैः।
प्रभद्रकैश्च पाञ्चालैश्चेदिभिश्च सकेकयैः॥ 7-194-26(54116)
हत्वा बहुविधाः सेनाः पाण्डूनां युद्धदुर्मदः।
कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः॥ 7-194-27(54117)
द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम्।
दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम्॥ 7-194-28(54118)
किमियं द्रवते सेना त्रस्तरूपेव भारत।
द्रवमाणां च राजेन्द्र नावस्थापयसे रणे॥ 7-194-29(54119)
त्वं चापि न यथा पूर्वं प्रकृतिस्थो नराधिप।
कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिव॥ 7-194-30(54120)
अन्येष्वपि च युद्धेषु नैव सेनाऽद्रवत्तदा।
कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत॥ 7-194-31(54121)
कस्पिन्निदं हते राजन्रथसिंहे बलं तव।
एतामवस्थां संप्राप्तं तन्ममाचक्ष्व कौरव॥ 7-194-32(54122)
तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम्।
घोरमप्रियमाख्यातुं नाशक्नोत्पार्थिवर्षभः॥ 7-194-33(54123)
भिन्ना नौरिव ते पुत्रो मग्नः शोकमहार्णवे।
बाष्पेणापिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम्॥ 7-194-34(54124)
ततः शारद्वतं राजा सव्रीडमिदमब्रवीत्।
शंसात्र भद्रं ते सर्वं यथा सैन्यमिदं द्रुतम्॥ 7-194-35(54125)
अथ शारद्वतो राजन्नार्तिमार्च्छन्पुनःपुनः।
शशंस द्रोणपुत्राय यथा द्रोणो निपातितः॥ 7-194-36(54126)
कृप उवाच। 7-194-37x(4777)
वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम्।
प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलम्॥ 7-194-37(54127)
ततः प्रवृत्ते सङ्ग्रमे विमिश्राः कुरुसोमकाः।
अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन्॥ 7-194-38(54128)
वर्तमाने तथा युद्धे क्षीयमाणेषु संयुगे।
धार्तराष्ट्रेषु सङ्क्रुद्धः पिता तेऽस्त्रमुदैरयत्॥ 7-194-39(54129)
ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः।
व्यहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः॥ 7-194-40(54130)
पाण्डवाः केकया मात्स्याः पाञ्चालाश्च विशेषतः।
सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः॥ 7-194-41(54131)
सहस्रं नरसिंहानां द्विसाहस्रं च दन्तिनाम्।
द्रोणो ब्रह्मास्त्रयोगेन प्रेषयामास मृत्यवे॥ 7-194-42(54132)
आकर्णपलितश्यामो वयसाऽशीतिपञ्चकः।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत्॥ 7-194-43(54133)
क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु।
अमर्षवशमापन्नाः पाञ्चाला विमुखाऽभवन्॥ 7-194-44(54134)
तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित्।
दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः॥ 7-194-45(54135)
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान्।
मध्यं गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताऽभवत्॥ 7-194-46(54136)
ते दह्यमाना द्रोणेन सूर्येणेव विराजता।
दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसाः॥ 7-194-47(54137)
तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः।
जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत्॥ 7-194-48(54138)
नैष जातु नरैः शक्यो जेतुं शस्त्रभृतां वरः।
अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः॥ 7-194-49(54139)
ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः।
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः॥ 7-194-50(54140)
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम।
हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः॥ 7-194-51(54141)
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः।
अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः॥ 7-194-52(54142)
भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव।
अश्वत्थामा हत इति तं नाबुध्यत ते पिता॥ 7-194-53(54143)
स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत।
हतं वाऽप्यहतं वाऽऽजौ त्वां पिता पुत्रवत्सलः॥ 7-194-54(54144)
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः।
अश्वत्थामानमायोधे हतं दृष्ट्वा महागजम्॥ 7-194-55(54145)
भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः।
उपसृत्य तदा द्रोणमुच्चैरिदमुवाच ह॥ 7-194-56(54146)
यस्यार्थे शस्त्रमादत्से यमवेक्ष्य च जीवसि।
पुत्रस्ते दयितो नित्यं सोश्वत्थामा निपातितः॥ 7-194-57(54147)
शेते विनिहतो भूमौ वने सिंहशिशुर्यथा॥ 7-194-58(54148)
जानन्नप्यनृतस्याथ दोषान्स द्विजसत्तमम्।
अव्यक्तमब्रवीद्राजा हतः कुञ्जर इत्युत॥ 7-194-59(54149)
स त्वां निहतमाक्रन्दे श्रुत्वा सन्तापतापितः।
नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा॥ 7-194-60(54150)
तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम्।
पाञ्चालराजस्य सुतः क्रुरकर्मा समाद्रवत्॥ 7-194-61(54151)
तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम्।
दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्रायमुपाविशत्॥ 7-194-62(54152)
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा।
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः॥ 7-194-63(54153)
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन्।
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत्॥ 7-194-64(54154)
उद्यम्य त्वरितो बाहुं ब्रुवाणश्च पुनःपुनः।
जीवन्तमानयाचार्यं मावधीरिति धर्मवित्॥ 7-194-65(54155)
तथा निवार्यमाणेन कौरवैरर्जुनेन च।
हत एव नृशंसेन पिता तव नरर्षभ॥ 7-194-66(54156)
सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः।
वयं चापि निरुत्साहा हते पितरि तेऽनघ॥ 7-194-67(54157)
सञ्जय उवाच। 7-194-68x(4778)
तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे।
क्रोधमाहारयत्तीव्रं दण्डाहत इवोरगः॥ 7-194-68(54158)
ततः क्रुद्धो रणे द्रौणिर्भृशं जज्वाल मारिष।
यथेन्धनं महत्प्राप्य प्राज्वलद्धव्यवाहनः॥ 7-194-69(54159)
तलं तलेन निष्पिष्य दन्तैर्दन्तानुपास्पृशत्।
निःश्वसन्नुरगो यद्वल्लोहिताक्षोऽभवत्तदा॥ ॥ 7-194-70(54160)

इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे चतुर्नवत्यधिकशततमोऽध्यायः॥ 194 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.